यत्सं॒वत्स॑मृ॒भवो॒ गामर॑क्ष॒न्यत्सं॒वत्स॑मृ॒भवो॒ मा अपिं॑शन्। यत्सं॒वत्स॒मभ॑र॒न्भासो॑ अस्या॒स्ताभिः॒ शमी॑भिरमृत॒त्वमा॑शुः ॥४॥
yat saṁvatsam ṛbhavo gām arakṣan yat saṁvatsam ṛbhavo mā apiṁśan | yat saṁvatsam abharan bhāso asyās tābhiḥ śamībhir amṛtatvam āśuḥ ||
यत्। स॒म्ऽवत्स॑म्। ऋ॒भवः॑। गाम्। अर॑क्षन्। यत्। स॒म्ऽवत्स॑म्। ऋ॒भवः॑। माः। अपिं॑शन्। यत्। स॒म्ऽवत्स॑म्। अभ॑रन्। भासः॑। अ॒स्याः॒। ताभिः॑। शमी॑भिः। अ॒मृ॒त॒त्वम्। आ॒शुः॒ ॥४॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहते हैं ॥
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
यद्य ऋभवः संवत्समिवाऽपत्यानि शिक्षन्ते गां वाचमरक्षन् यद्य ऋभवः संवत्समिव मा अपिंशन् यद्या मातरो भासोऽस्याः संवत्समभरँस्ते ताश्च ताभिः शमीभिरमृतत्वमाशुः ॥४॥